📚 गीताविवृतिः (राघवेन्द्रतीर्थः) - अध्यायः ११
Page 1
Download 📥
________________ अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ ११.१ ॥ ॥ॐ ॥ पूर्वान्ते 'विष्टभ्याहमिदं कृत्स्नं' इति व्याप्तरूपोपासनं सङ्क्षेपेणोक्तम् । सङ्क्षेपेणोक्तरूपस्य बुद्धावनारोहेणाशक्य- ध्यानत्वात्तद्धयानसौकर्याय प्राक् सङ्क्षेपेणोक्तविश्वरूपस्थितिरत्र विस्तरेणोच्यत इति पूर्वानन्तर्यमर्थभेदश्चास्येति ध्येयम् । विश्वरूपं ज्ञातुं तत्प्रष्टु कामः प्रागुक्तमनुवदत्यर्जुनः ॥ मदनुग्रहायेति द्वाभ्याम् । परमं गुह्यमतिहोप्यं आत्मानं भगवन्तं अधिकृत्य स्थितमध्यात्मं अध्यात्मनामकं यद्वचः त्वया मदनुग्रहायोक्तम् । तेन बन्धुस्नेहादिरूपोऽयं मोहो विगतोऽपगतः मम ॥ ११.१॥ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥११.२॥ हे कमलदलवदायतनेत्र । त्वत्तः भूतानां भवाप्ययौ । ’अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा' (७.६) इत्यादिना सप्तमाध्यायादिषु विस्तरशो मया श्रुतौ अव्ययं माहात्म्यमपि च श्रुतम् ॥ ११.२॥ एवमेतद्यथाऽऽत्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ११.३ ॥ तद्वचनं स्तुवन् ज्ञातव्यविश्वरूपाविर्भावं प्रार्थयते ॥ एवमित्यादि द्वाभ्याम् । हे परमेश्वर यथा येन प्रकारेणात्मानं त्वमात्थ वदसि । एतद्वचनं एवमेव सत्यमेव । हे पुरुषोत्तम ऐश्वरमचिन्त्यशक्तिकं ते रूपं द्रष्टुमिच्चामि ॥ ११.३॥ १